Trailokya Mohana Ganapati Kavacham – त्रैलोक्यमोहन गणपति कवचम् – नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने।
इस मंत्र के पाठ करने से सभी बाधाओं का नाश – जीवन में आ रही कठिनाइयों को दूर करता है। शत्रु नाशक – शत्रुओं और नकारात्मक ऊर्जा से रक्षा करता है। आकर्षण शक्ति – व्यक्ति के चारों ओर सकारात्मक आकर्षण और सफलता का संचार रहता है। सूर्य उदय के समय शुद्ध स्थान पर बैठकर इस मंत्र का जाप करें। मन शांत और सकारात्मक रखें और श्री गणेश जी का ध्यान करते हुए इसका उच्चारण करें।
|| त्रैलोक्यमोहन गणपति कवचम् ||
श्री गणेशाय नमः ।
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥
श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।
गणपतिर्देवता च गायत्री छन्दः एव च ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
शक्तिः स्वाहा ग्लौँ बीजं विनियोगस्य कीर्तितः ॥
अथ न्यासः ।
ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः ।
ग्लौँ गँ गणपतये तर्जनीभ्यां नमः ।
वरवरद मध्यमाभ्यां नमः ।
सर्वजनं मे अनामिकाभ्यां नमः ।
वशमानय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥
ध्यानं –
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।
अथ कवचम् ।
ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।
श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥
हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।
कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥
ग्लौँ गँ च गणपतये वाचं पातु विनायकः ।
वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥
सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।
वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥
नाभिमानय मे पातु सर्वसिद्धिविनायकः ।
जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥
गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।
दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥
दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।
दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥
प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।
कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥
अधो गणपतिः पातु ऊर्धं पातु विनायकः ।
एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥
इदं कवचमाहाम्यं न देयं यस्यकस्यचित् ।
यस्य स्मरणमात्रेण मृत्योर्मृत्युभवेत्स्वयम् ॥ १०॥
इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ ११॥
सप्तकोटिमहामन्त्रास्तत्रादौ कथिताः प्रिये ।
महागणपतेर्यद्दिव्यं कवचं मन्मुखोदितम् ॥ १२॥
गुरुमभ्यर्च्य विधिवत्कवचं यः पठेद्यतः ।
त्रिः सकृद्वा यथान्यासं सोऽपि पुण्ययुतो नरः ॥ १३॥
देशिकः सर्वमन्त्रेषु ह्याधिकारी जपादिषु ।
देवमभ्यर्च्य विधिवत्पुरश्चर्यां समाचरेत ॥ १४॥
अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम ।
ततस्तु सिद्धकवचः पूर्णतामदनोपमः ॥ १५॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः ।
गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रजापते ॥ १६॥
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ।
पुष्पाञ्जल्यष्टकं दत्वा मूले नैव पठेत्सकृत् ॥ १७॥
अपि वर्षसहस्रायाः पूजायाः फलमाप्नुयात् ।
विलिख्य भूर्जपत्रे तु स्वर्णस्थ धारयेद्यदि ॥ १८॥
कण्ठे वा दक्षिणे बाहौ सकुर्याद्दासवत् जगत् ।
त्रैलोक्यं क्षोभवत्येव त्रैलोक्यविजयी भवेत् ॥ १९॥
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि याति च ।
मान्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ २०॥
स्पर्धान्निर्धूय भवने लक्ष्मीर्वाणी मुखे वसेत् ॥ २१॥
इदं कवचमज्ञात्वा यो जपेद्गणनायकम् ।
न स सिद्धिमवाप्नोति मूढो वर्षशतैरपि ॥ २२॥
सर्वशत्रुक्षयकरं सर्वविघ्ननिवारणम् ।
सर्वापत्त्येकशमनं सर्वमोक्षस्य हेतुकम् ॥ २३॥
इति श्रीरुद्रयामले गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् ।
त्रैलोक्यमोहन गणपति कवचम्” एक शक्तिशाली गणपति मंत्र है जो तीनों लोकों में अद्वितीय आकर्षण, सफलता और सुरक्षा प्रदान करने में सहायक माना जाता है।