Sri Ganesha Bahya Puja – श्री गणेश बाह्य पूजा – बाह्यपूजां वद विभो! गृत्समदप्रकीर्तिताम्।

श्री गणेश बाह्य पूजा एक पारंपरिक विधि है, जिसमें भक्त गणेश जी की मूर्ति या चित्र के सामने श्रद्धा के साथ पूजा करते हैं। इस पूजा का उद्देश्य भगवान गणेश को प्रसन्न करना और जीवन में समृद्धि, सुख और शांति प्राप्त करना है। बाह्य पूजा का शाब्दिक अर्थ है “बाहरी रूप से की गई पूजा,” यानी शरीर और मन से गणेश जी की पूजा करना। यह पूजा विशेष रूप से गणेश चतुर्थी, विनायक चतुर्थी या किसी भी शुभ अवसर पर की जाती है, लेकिन इसे किसी भी दिन विशेष रूप से बुधवार को करना शुभ माना जाता है।

|| श्री गणेश बाह्य पूजा ||

ऐल उवाच ॥

बाह्यपूजां वद विभो! गृत्समदप्रकीर्तिताम् ।
येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ १॥

गार्ग्य उवाच ॥

आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः ।
बाह्यां चकार विधिवत्तां श‍ृणुष्व सुखप्रदाम् ॥ २॥

हृदि ध्यात्त्वा गणेशानं परिवारादिसंयुतम् ।
नासिकारन्ध्रमार्गेण तं बाह्यांग चकार ह ॥ ३॥

आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् ।
पश्चाच्छ्लोक समुच्चार्य पूजयामास विघ्नपम् ॥ ४॥

गृत्समद उवाच ॥

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्त वर्णकम् ।
पाशांकुशादि-संयुक्तं मायायुक्त प्रचिन्तयेत् ॥ ५॥

आगच्छ ब्रह्मणां नाथ सुरा-ऽसुर-वरार्चित ।
सिद्धि-बुद्ध्यादि-संयुक्त! भक्तिग्रहणलालस!॥ ६॥

कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशाऽनुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७॥

रत्नसिंहासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ ८॥

सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९॥

सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः ।
आचमनं च तेनैव कुरूष्व गणनायक ॥ १०॥

रत्न-प्रवाल-मुक्ताद्यैरनर्ध्यैः संस्कृतं प्रभो ।
अर्ध्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११॥

दधि-मधु-घृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२॥

पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरू ॥ १३॥

चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यंगं कुरू सर्वेश! लम्बोदर! नमोऽस्तु ते ॥ १४॥

यक्ष-कर्दमकाद्यैश्च विघ्नेश भक्तवत्सल!।
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५॥

नानातीर्थजलैर्ढुण्ढे! सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं कुरू ढुण्ढे समर्पितैः ॥ १६॥

कामधेनु समद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ १७॥

पंचामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥ १८॥

दधि धेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९॥

धेनुदुग्धोद्भवं ढुण्ढे घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरू प्रभो ॥ २०॥

सारघं सस्कृतं पूर्णं मधु मधुरसोद्भवम् ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१॥

इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ २२॥

यक्षकर्दमकाद्यैश्च स्नानं कुरू गणेश्वर ।
अन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ २३॥

ततो गन्धाक्षतादींश्च दूर्वांकुरान् गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४॥

ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः ।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥ २५॥

तत आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६॥

वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७॥

उत्तरीयं सुचित्रं वै नभस्तारांकितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८॥

उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९॥

ततः सिन्दूरकं देव गृहाण गणनायक ।
अंगलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३०॥

नानाभूषणकानि त्वमंगेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१॥

अष्टगन्ध-समायुक्तं गन्धं रक्तं गजानन ।
द्वादशांगेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२॥

रक्तचन्दनसंयुक्तानथ वा कुंकुमैर्युतान् ।
अक्षतान् विघ्नराज त्वं गृहाण भालमण्डले ॥ ३३॥

चम्पकादि-सुवृक्षेभ्यः सम्भूतानि गजानन ।
पुष्पाणि शमी-मन्दार-दूर्वादीनि गृहाण च ॥ ३४॥

दशांग गुग्गुलं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५॥

नानाजातिभवं दीप गृहाण गणनायक ।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ ३६॥

चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्त भोजनं कुरू विघ्नप ॥ ३७॥

सुवासितं गृहाणेदं जलं तीर्थ समाहृतम् ।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ ३८॥

भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९॥

दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०॥

अष्टांग देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१॥

दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः संयुतां ढुंढे गृहाण सकलप्रिय ॥ ४२॥

राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३॥

तत आभरणं तेऽहमर्पयामि विधानतः ।
विविधैरूपचारैश्च तेन तुष्टो भव प्रभो ॥ ४४॥

ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् ।
गृहाण कार्यसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ ४५॥

नानादीपसमायुक्तं नीराजनं गजानन ।
गृहाण भावसंयुक्तं सर्वाज्ञानादिनाशन ॥ ४६॥

गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् ।
गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ ४७॥

आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो ।
गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ ४८॥

पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो ।
एकं तु सप्तवारं वै सर्वांगेषु निरंजनम् ॥ ४९॥

चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन ।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ ५०॥

पंचप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप ।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ ५१॥

एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन ।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ ५२॥

साष्टांगा प्रणतिं नाथ एकविंशतिसम्मिताम् ।
हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ ५३॥

न्यूनातिरिक्तभावार्थं किंचिद् दुर्वांकुरान् प्रभो ।
समर्पयामि तेन त्वं सांगां पूजां कुरूष्व ताम् ॥ ५४॥

त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् ।
शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ ५५॥

अपराधानसंख्यातान् क्षमस्व गणनायक ।
भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ ५६॥

त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ ५७॥

जाग्रत्-स्वप्न-सुषुप्तिभिर्देह-वांग्मनसैः कृतम् ।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ ५८॥

ब्राह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् ।
गणेशपादतीर्थस्य मस्तके धारणात् किल ॥ ५९॥

पादोदकं गणेशस्य पीतं मर्त्येण तत्क्षणात् ।
सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥ ६०॥

गणेशूच्छिष्टगन्धं वै द्वादशांगेषु चर्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ ६१॥

यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् ।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥ ६२॥

द्वादशांगेषु विघ्नेशं नाममन्त्रेण चाऽर्चयेत् ।
तेन सोऽपि गणेशेन समो भवति भूतले ॥ ६३॥

आदौ गणेश्वरं मूर्ध्नि ललाटे विघ्ननायकम् ।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ ६४॥

वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् ।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ ६५॥

बाहौ दक्षिणके चैव हेरंबं वामबाहुके ।
विकटं नाभिदेशे तु विघ्ननाथं समर्चयेत् ॥ ६६॥

कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् ।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ ६७॥

सर्वांगलेपनं शस्तं चित्रितं चाऽष्टगन्धकैः ।
गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ ६८॥

ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् ।
भुक्ति-मुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ ६९॥

गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदाऽस्तु मे गजानन ॥ ७०॥

गार्ग्य उवाच ॥

एवं गृत्समदश्चैव चकार बाह्यपूजनम् ।
त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ ७१॥

तथा कुरु महीपाल गाणपत्यो भविष्यसि ।
तथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ ७२॥

इति श्रीमदान्त्ये मुद्गलपुराणे गृत्समदकृता गणेशबाह्यपूजा समाप्ता ॥

श्री गणेश बाह्य पूजा एक सरल और प्रभावी पूजा है, जिसमें भगवान गणेश की कृपा प्राप्त करने के लिए हर चरण में समर्पण और श्रद्धा का भाव होता है। इसके नियमित पाठ करने से भक्त के जीवन में विघ्न-बाधाएँ दूर होती हैं और समृद्धि व शांति बानी रहती है।

Leave a Reply

Your email address will not be published. Required fields are marked *