Sri Ganesha Namashtakam – श्री गणेश नामाष्टकम् – श्रीविष्णुरुवाच । गणेशमेकदन्तं च हेरम्बं विघ्ननायकम्।
“श्री गणेश नामाष्टकम” भगवान गणेश को समर्पित एक प्रसिद्ध स्तोत्र है जो उनके नौ नामों की महिमा को वर्णित करता है। यह स्तोत्र भगवान गणेश के विभिन्न रूपों की स्तुति करता है और उनके शक्तियों की महत्ता को बयां करता है।
|| श्री गणेश नामाष्टकम् ||
श्रीविष्णुरुवाच ।
गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् ।
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥ १ ॥
नामाष्टार्थं च पुत्रस्य शृणु मातहरप्रिये ।
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् ॥ २ ॥
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ ३ ॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् ॥ ४ ॥
दीनार्थवाचको हेश्च रम्बः पालकवाचकः ।
दीनानां परिपालकं हेरम्बं प्रणमाम्यहम् ॥ ५ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।
विपत्खण्डनकारकं नमामि विघ्ननायकम् ॥ ६ ॥
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।
पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरं च तम् ॥ ७ ॥
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ ।
सम्पदौ ज्ञानरूपौ च शूर्पकर्णं नमाम्यहम् ॥ ८ ॥
विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम् ।
तं गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥ ९ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये ।
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् ॥ १० ॥
एतन्नामाष्टकं स्तोत्रं नानार्थसम्युतं शुभम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ११ ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्भुवम् ॥ १२ ॥
पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम् ।
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्भुवम् ॥ १३ ॥
इति श्रीब्रह्मवैवर्ते गणपतिखण्डे विष्णूपदिष्टं श्रीगणेशनामाष्टकम् ।
यह स्तोत्र नित्य प्रार्थना के रूप में पाठ किया जा सकता है, और इसका पाठ करने से भक्त को आत्मिक और भौतिक सुख-शांति प्राप्त होती है। इसके अलावा, इस स्तोत्र के पाठ से जीवन में संतुलन और सफलता की प्राप्ति होती है।